(दुर्गावाहिनी संगठन की बहिनों द्वारा की जाने वाली नित्य प्रार्थना)
"अये देवी दुर्गे महाशक्ति रुपे, महामंगले वत्सले मातृभूमे |
त्वमेका भवानी त्वमेका शरण्या, विधात्र्ये शिवाये नमस्ते नमस्ते ||
त्वया प्रेरिताः स्मो वयं वीरबालाः, शुभं कर्म कर्तुम विजेतुं रणं च |
स्वदेशे विदेशे सुकार्य विकिर्य, सदाचार वृत्ति वयं स्थापयाम ||
श्रुति शीलतामानति सत्प्रवृतिम्, दयाभावनामेकतामात्मशक्तिम् |
इमः साधिकः यच्छ चास्मतकृते त्वं, यतो भारते सन्तु नार्यम् समर्थः ||
सदा रक्षीतुम् हिन्दूधर्म वरेण्यं, निहंतुं खलां साधुवृत्तं च पातुम् |
समुन्नेतुमेतद् वरं हिन्दूराष्ट्रं, जये पुण्यभूमे शुभे देहि शक्तिम् ||"
दुर्गा माता की जय ! भारत माता की जय !
..........................
(राष्ट्रसेविका समिति की बहिनों द्वारा की जाने वाली नित्य प्रार्थना)
"नमामो वयं मातृभूः पुण्यभूस्त्वाम् , त्वया वर्धिताः संस्कृतास्त्वत्सुताः |
अये वत्सले मङ्गले हिन्दुभूमे, स्वयं जीवितान्यर्पयामस्त्वयि ।।१।।
नमो विश्वशक्त्यै नमस्ते नमस्ते, त्वया निर्मितं हिंदुराष्ट्रं महत् |
प्रसादात्तवैवात्र सज्जाः समेत्य, समालंबितुं दिव्यमार्गं वयम् ।।२।।
समुन्नामितं येन राष्ट्रं न एतत् , पुरो यस्य नम्रं समग्रं जगत् |
तदादर्शयुक्तं पवित्रं सतीत्वम् , प्रियाभ्यः सुताभ्यः प्रयच्छाम्ब ते ।।३।।
समुत्पादयास्मासु शक्किं सुदिव्याम् , दुराचार-दुर्वृत्ति-विध्वंसिनीम्
पिता-पुत्र-भ्रातृंश्च भर्तारमेवम् , सुमार्गं प्रति प्रेरयन्तीमिह ।।४।।
सुशीलाः सुधीराः समर्थाः समेताः, स्वधर्मे स्वमार्गे परं श्रद्धया |
वयं भावि-तेजस्वि-राष्ट्रस्य धन्याः, जनन्यो भवेमेति देह्याशिषम् ।।५।।
।। भारत माता की जय ।।