Thursday 13 February 2020

गीता के निम्न १४ श्लोकों का अर्थ सहित नित्य पाठ, मनन और ध्यान ..... किसी भी श्रद्धालु का परम कल्याण कर सकता है :---

एक महान संत के अनुसार गीता के निम्न १४ श्लोकों का अर्थ सहित नित्य पाठ, मनन और ध्यान ..... किसी भी श्रद्धालु का परम कल्याण कर सकता है :---
.
"तेषां ज्ञानी नित्ययुक्त एकभक्ितर्विशिष्यते| प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः||७:१७||"
"तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च| मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम्||८:७||"
"अभ्यासयोगयुक्तेन चेतसा नान्यगामिना| परमं पुरुषं दिव्यं यातिपार्थानुचिन्तयन्||८:८||"
"अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते| तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम्||९:२२||"
"मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु| मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः||९:३४||"
"मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम्| कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च||१०:९||"
"ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्पराः| अनन्येनैव योगेन मां ध्यायन्त उपासते||१२:६||"
"तेषामहं समुद्धर्ता मृत्युसंसारसागरात्| भवामि नचिरात् पार्थ मय्यावेशितचेतसाम्||१२:७||"
"मय्येव मन आधत्स्व मयि बुद्धिं निवेशय| निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः||१२:८||"
मां च योऽव्यभिचारेण भक्ितयोगेन सेवते| स गुणान्समतीत्यैतान् ब्रह्मभूयाय कल्पते||१४:२६||"
"चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः| बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव||१८:५७||"
"मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि| अथ चेत्त्वमहङ्कारान्न श्रोष्यसि विनङ्क्ष्यसि||१८:५८||"
"मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु| मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे||१८:६५||"
"सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज| अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः||१८:६६||"

No comments:

Post a Comment